|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.97. अध्यायः 097
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सयुक्तिकं युद्धस्य धर्म्यत्वसमर्थनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-97-0x(5592)(68539)
क्षत्रधर्माद्धि पापीयान्न धर्मोऽस्ति नराधिप।
अपयाने च युद्धे च राजा हन्ति महाजनम्॥ 12-97-1(68540)
अथ स्म कर्मणा केन लोकाञ्जयति पार्थिवः।
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ॥ 12-97-2(68541)
भीष्म उवाच। 12-97-3x(5593)
निग्रहेण च पापानां साधूनां संग्रहेण च।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः॥ 12-97-3(68542)
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः।
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः॥ 12-97-4(68543)
अपविध्यन्ति पापानि दानयज्ञतपोबलैः।
अनुग्रहेण भूतानां पुण्यमेषां विवर्धते॥ 12-97-5(68544)
यथैव क्षेत्रनिर्याता निर्यातं क्षेत्रमेव च।
हिनस्ति धान्यकक्षं च न च धान्यं विनश्यति॥ 12-97-6(68545)
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्याननेकधा।
तस्यैषा निष्कृतिर्दृष्टा भूतानां भावनं पुनः॥ 12-97-7(68546)
यो भूतानि सदाऽनर्थाद्वधात्क्लेशाच्च रक्षति।
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट्॥ 12-97-8(68547)
स सर्वयज्ञारीजानो राजाऽथाभयदक्षिणैः।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्॥ 12-97-9(68548)
ब्राह्मणार्थे समुत्पन्ने योऽभिनिष्पत्य युध्यति।
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः॥ 12-97-10(68549)
अभीतो विकिरञ्शत्रून्प्रतिगृह्य शरांस्तथा।
न तस्मान्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन॥ 12-97-11(68550)
तस्य शस्त्राणि यावन्ति त्वचं भिन्दन्ति संयुगे।
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान्॥ 12-97-12(68551)
यदस्य रुधिरं गात्रादाहवे संप्रवर्तते।
सह तेनैव स्रावेण सर्वपापैः प्रमुच्यते॥ 12-97-13(68552)
यानि दुःखानि सहते प्राणानामतिपातने।
न तपोऽस्ति ततो भूय इति धर्मविदो विदुः॥ 12-97-14(68553)
पृष्ठतो भीरवः सङ्ख्ये वर्तन्ते धर्मपूरुषाः।
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम्॥ 12-97-15(68554)
यदि शूरं तथा क्षेमे प्रतीक्षेरन्यथा भये।
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा॥ 12-97-16(68555)
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम्।
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा॥ 12-97-17(68556)
पुरुषाणां समानानां दृश्यते महदन्तरम्।
संग्रामेऽनीकवेलायामुत्कृष्टेषु पतत्सु च॥ 12-97-18(68557)
पतत्यभिमुखं शूरः परान्भीरुः पलायते।
आस्थाय स्वर्ग्यमध्वानं सहायान्विषमे त्यजन्॥ 12-97-19(68558)
मा स्म तांस्तादृशांस्तात जनिष्टाऽधर्मपूरुषान्॥ 12-97-20(68559)
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः।
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः॥ 12-97-21(68560)
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति।
तं हन्युः काष्ठलोहैर्वा दहेयुर्वा कटाग्निना।
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः॥ 12-97-22(68561)
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत्।
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन्॥ 12-97-23(68562)
अविक्षतेन देहेन प्रलयं योऽधिगच्छति।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः॥ 12-97-24(68563)
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते।
शौण्डीराणामशौण्डीर्यमधर्मं कृपणं च तत्॥ 12-97-25(68564)
इदं कृच्छ्रमहो दुःखं पापीय इति निष्टनन्।
प्रतिध्वस्तमुखः पूतिरमात्याननुशोचयन्॥ 12-97-26(68565)
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति।
वीरो दृप्तो मनस्वी च नेदृशं मृत्युमर्हति॥ 12-97-27(68566)
रणेषु कदनं कृत्वा सुहृद्भिः प्रतिपूजित।
तीक्ष्णैः शस्त्रैरभिक्लिष्टः क्षत्रियो मुत्युमर्हति॥ 12-97-28(68567)
शूरो हि सत्वमन्युभ्यामाविष्टो युध्यते मशम्।
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते॥ 12-97-29(68568)
स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम्।
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम्॥ 12-97-30(68569)
सर्वोपायै रणमुखमातिष्ठंस्त्यक्तजीवितः।
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन्॥ 12-97-31(68570)
यत्रयत्र हतः शूरः शत्रुभिः परिवारितः।
अक्षयांल्लभते लोकान्यदि दैन्यं न सेवते॥ ॥ 12-97-32(68571)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तनवतितमोऽध्यायः॥ 97॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-97-1 महाजनं कटकाश्रितं वैश्यादिजनम्॥ 12-97-2 केन तद्वधप्रायश्चित्तं कृत्वा पुण्यफलमाप्नोतीत्यर्थः॥ 12-97-4 उपरुन्धन्ति पीडयन्ति॥ 12-97-5 अपविध्यन्ति दूरीकुर्वन्ति॥ 12-97-6 निर्याता तृणाद्यपनयेन शोधकः। कक्षं तृणं। क्षेत्रनिर्वाहो निर्दहेत्क्षेत्रमेकदा इति द. पाठः॥ 12-97-7 भावनं वर्धनम्। पावनं महदिति द. पाठः॥ 12-97-10 आत्मानं देहयूपं यज्ञस्तम्भं उत्सृज्य उच्छ्रित्य। यज्ञो युद्धयज्ञः॥ 12-97-18 अनीकवेलायां अनीकानां संघट्टकाले॥ 12-97-19 विषमे प्राणसंकटे त्यजन् भीरुरिति संबन्धः॥ 12-97-22 ते तृणमये कटे बद्ध्वा दहनं कटाग्निना दाहः॥ 12-97-25 शौण़्डीराणां शूरत्वाभिमानवताम्॥ 12-97-26 निष्टनञ्शब्दं कुर्वन्। पूतिः दुर्गन्धिः। अमात्यान्पुत्रान्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|